|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.7. अध्यायः 007
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रम्प्रति तत्त्वकथनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
धृतराष्ट्र उवाच। 11-7-0x(5324)(64944)
अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना।
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव॥ 11-7-1(64945)
विदुर उवाच। 11-7-2x(5325)
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्।
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः॥ 11-7-2(64946)
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः।
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा॥ 11-7-3(64947)
एवं संसारपर्याये गर्भवासेषु भारत।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः॥ 11-7-4(64948)
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः।
यत्तत्संसारगहनं वनमाहुर्मनीषिणः॥ 11-7-5(64949)
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः॥ 11-7-6(64950)
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः॥ 11-7-7(64951)
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः॥ 11-7-8(64952)
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी॥ 11-7-9(64953)
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि।
मज्जमानं महापङ्के निरालम्बे समन्ततः॥ 11-7-10(64954)
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः।
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च॥ 11-7-11(64955)
एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा॥ 11-7-12(64956)
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम्।
इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः॥ 11-7-13(64957)
तेषां हयानां यो वेगं धावतामनु धावति।
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥ 11-7-14(64958)
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥ 11-7-15(64959)
[भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते॥ 11-7-16(64960)
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते॥ 11-7-17(64961)
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥] 11-7-18(64962)
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप॥ 11-7-19(64963)
अनुतर्षुलमेवैतद्दुःखं भवति मारिष।
राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत।
साधुः परमदुःखानां दुःखभैषज्यमारभेत्॥ 11-7-20(64964)
ज्ञानौषधमवाप्येह दूरपारं महौषधम्।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः॥ 11-7-21(64965)
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः।
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः॥ 11-7-22(64966)
तस्मान्मैत्रं समास्थाय शीलमापदि भारत।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥ 11-7-23(64967)
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति॥ 11-7-24(64968)
अभयं सर्वभूतेभ्यो यो ददाति महीपते।
स गच्छति परं स्थानं विष्णोः पदमनामयम्॥ 11-7-25(64969)
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः॥ 11-7-26(64970)
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम्।
अनिष्टं सर्वभूतानां मरणं नाम भारत॥ 11-7-27(64971)
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता॥ 11-7-28(64972)
नानायोगसमायुक्ता बुद्धिजालेन संवृताः।
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम्॥ 11-7-29(64973)
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम्।
कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान्॥ ॥ 11-7-30(64974)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-7-3 श्रमाच्छ्रान्त इति झ.पाठः॥ 11-7-8 वार्यमाणाश्च भारतेति झ.पाठः॥ 11-7-9 अथापि तैर्न मुच्येतेति क.पाठः॥ 11-7-10 मज्जमांसमहापङ्के इति झ.पाठः॥ 11-7-17 ये तु संसारचक्रेऽस्मिन्निति झ.पाठः॥ 11-7-15 शतशास्वः संसारवृक्षः॥ 11-7-17 क्रोधलोभौ निराकृतौ येन सः॥ 11-7-18 याम्यं योमलोकप्रापकं संसारगहनम्॥ 11-7-19 अनुतर्षुलं तृष्णाशीलं लक्षीकृत्य। अनुकर्षणमेनैतद्दुःखं न भवति भारतेति क.छ.पाठः॥ 11-7-20 दूरपारं ब्रह्मज्ञानम्॥ 11-7-23 ब्रह्मणः ब्रह्मलोकस्य प्रापका इति शेषः॥ 11-7-7 सप्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|